प्रथमावृत्तिः
सूत्रम्॥
यस्येति च॥ ६।४।१४८
पदच्छेदः॥
यस्य ६।१ ईति ७।१ च ० लोपः ? तद्धिते ? भस्य ? अङ्गस्य ?
समासः॥
इश्च अश्च यम्, (यणादेशे कृते) तस्य ॰ समाहारद्वन्द्वः
अर्थः॥
इ-वर्णान्तस्य अ-वर्णान्तस्य च अङ्गस्य भस्य ईकारे तद्धिते च परः लोपः भवति।
उदाहरणम्॥
इ-वर्णान्तस्य ई-कारे - दाक्षी, प्लाक्षी, सखी।
इ-वर्णान्तस्य तद्धिते - दुलि=दौलेयः। बलि=बालेयः, अत्रि=आत्रेयः।
अ-वर्णान्तस्य ईकारे - कुमारी, गौरी, शार्ङ्गरवी।
अवर्णान्तस्य तद्धिते - दाक्षिः, प्लाक्षिः, चौडिः, बालाकिः, सौमित्रिः॥
काशिका-वृत्तिः
यस्य इति च ६।४।१४८
इवर्णान्तस्य अवर्णातस्य च भस्य इकारे परे तद्धिते च लोपो भवति। इवर्णान्तस्य ईकारे दाक्षी। प्लाक्षी। सखी। सवर्नदीर्घत्वे हि सति अतिसखेरागच्छति इत्यत्र एकादेशस्य अन्तवत्त्वादस्खि इति घिसंज्ञायाः प्रतिषेधः स्यात्। इवर्णान्तस्य तद्धिते दुलि दौलेयः। वलि वालेयः। अत्रि आत्रेयः। अवर्णान्तस्य ईकारे कुमारी। गौरी। शार्ङ्गरवी। अवर्णान्तस्य तद्धिते दाक्षिः। प्लाक्षिः। चौडिः। बालाकिः। सौमित्रिः।
यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः। काण्डे। कुड्ये। सौर्ये हिमवतः शृङ्गे। औङः शीभावे कृते यस्य इति च इति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः
६।४।१४९ इति च लोपः प्राप्नोति। इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन। वत्सान् प्रीणाति वत्सप्रीः, तस्य अपत्यम् वात्सप्रेयः। चतुष्पाद्भ्यो डञ्
४।१।१३५ इति ढञ्प्रत्ययः। लोखाभ्रूः शुभ्रादिः, तस्याः अपत्यम् लैखाभ्रेयः।
लघु-सिद्धान्त-कौमुदी
यस्येति च २३७, ६।४।१४८
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते (औङः श्यां प्रतिषेधो वाच्यः)। ज्ञाने॥
न्यासः
यस्येति च। , ६।४।१४८
अत्र यस्येति यकारस्येदं ग्रहणं वा स्यात्(),
इवर्णावर्णयोर्वा? अत्र यदि यकारस्येदं ग्रहणं स्यात्(), उत्तरसूत्रे पुनर्यग्रहणं न कुर्यात्(), एतदेव हि तत्रानुवर्त्तिष्यते। तस्मादिवर्णावर्णयोरिदं ग्रहणम्। तत्र वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतीति तदन्तविधिर्विज्ञायते--इत्यतच्चेतसि कृत्वाऽऽह--"इवर्णावर्णान्तस्य" इत्यादि। "दाक्षी, प्लाक्षी" इति। दाक्षिप्लाक्षिशब्दाभ्यां "इतो मनुष्यजातेः"
४।१।६५ इति ङीष्()। "सखी" इत्यत्रापि "सख्यशि()आईति भाषायाम्()"
४।१।६२ इति निपातनात्()।
ननु चात्र सवर्णदीर्घत्वेनाप्येतत्? सिद्धम्(),
तत्? किमर्थमत्र लोप विधीयते? इत्यत आह--"सवर्णदीर्घत्वे हि" इत्यादि। "अतिक्रान्ता सखी एनम्()" इति "प्रादिभ्यो धातुजस्य" (वा।१०१) इति बहुव्रीहिरुत्तरपदलोपश्च, उपसर्जनह्यस्वत्वम्()। तत्र यदि सवर्णदीर्घत्त्वं क्रियेत, न तु लोपस्तदा सखीकारेकारयोरेकादेशः सखिशब्दस्यान्तवद्भवतीति "शेषो ध्यसखि"
१।४।७ इतचि धिसंज्ञायाः प्रतिषेधः स्यात्()। ततश्चातिसखेरागनच्छतीति "घेङिति"
७।३।१११ इति गुणो न स्यात्()। लोपे सत्युपसर्जनह्यस्वत्वे सति यद्यपि प्रविशिष्टं रूपम्(), तथापि लाक्षणिकम्()। अतो लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) तन्न गृह्रत इति न भवति प्रतिषेधः। तस्माल्लोप एव कत्र्तव्यः।
"दौलेयः" इत्युदाहरणत्रये "इतश्टचानिञः"
४।१।१२२ इत्यपत्यार्थे ढक्()।
"कुमारी इति। "वयसि प्रथमे"
४।१।२० इति ङीप्()। "गौरी" इति। "षिद्गौरादिभ्यश्च"
४।१।४१ इति ङीष्()। "शाङ्र्गरवी" इति। "शाङ्र्गरवाद्यञो ङीन्()"
४।१।७३। "बालाकिः सौमित्रिः" इति। बालकसुमित्राभ्यां बह्वादित्वादिञ्()।
"यस्येत्यादौ" इति। आदिशब्देनोत्तरो विधिः परिगृह्रते।
वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--"विभाषा ङिश्योः"
६।४।१३६ इत्येतत्सूत्राद्विभाषाग्रहणं मण्डूकप्लुतिन्यायेनानुवत्र्तते, सा च व्यवस्थितविभाषा। तेन चानेन सूत्रेण लोपो विधीयते, यश्चोत्तरसूत्रेण, तावुभावपि न भवत इति। "काण्डे, कुडये" इति। "औङ आपः"
७।१।१८ इति, "नपुंसकाच्च"
७।१।१९ इति शोभाव इति, तत्र यस्येत्यकारलोपः प्राप्नोति। "सौर्ये" इति। "तेनैकदिक्()"
४।३।११२ इति सूर्यशब्दादण्(), तदन्तादौङः शीभावः, तत्रानेनाकारलोपः प्राप्नोति, उत्तरसूत्रेम यकारलोपश्च। "इयङ्वङभ्याम्()" इत्यादि। इयङुवङोरवकाशः--श्रियौ, श्रियः, भ्रुवौ भ्रुवः, लोपस्यावकाशः--कामण्डलेयः, माद्रबाहेय इति; वात्सप्रेयः, लैखाभ्रेय इत्यत्रोभयं प्राप्नोति, लोपो भवति विप्रतिषेधेन। "वत्सप्रीः" इति। क्विबन्तमेतत्()॥
बाल-मनोरमा
यस्येति च ३०९, ६।४।१४८
यस्येति च। यस्य-ईतीति छेदः। इश्च अश्चतयोः समाहारो यं, तस्य [यस्य]=इवर्णस्य अवर्णस्य चेत्यर्थः। "भस्ये"त्यधिकृतम्। "नस्तद्धिते" इत्यतस्तद्धिते इत्यनुवर्तते। तदाह--भस्येत्यादिना। इत्यकारलोपे प्राप्ते इति। "सुडनपुंसकस्ये"ति पर्युदासेन शीभावस्याऽसर्वनामस्थानतया तस्मिन्परतो भत्वादिति भावः।
औङ श्यामिति। औङो यः श्यादेशस्तस्मिन् परतो "यस्येति चे"ति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः। श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम्। "औङ्" इति तु व्यर्थमेव। "सर्वे" इत्यादौ "जसः शी"त्यस्य भादिकारेणैव व्यावृत्तिसिद्धेः। ज्ञाने इति। ज्ञान ई इति स्थिते आद्गुण इति भावः।